हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Nitya Parayana Sloka – नित्यपारायण श्लोक


नीन्द से उठने के बाद

कराग्रे वसते लक्ष्मीः कर मध्ये सरस्वती ।
कर मूले स्थिता गौरी प्रभाते कर दर्शनम् ॥

समुद्र वसने देवि पर्वत स्तन मण्डले ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥

आदित्याय च सोमाय मङ्गलाय बुधाय च ।
गुरु शुक्र शनिभ्यश्च राहवे केतवे नमः ॥

ब्रह्मा मुरारिस्त्रिपुरान्तकारी ।
भानुश्शशी भूमिसुतो बुधश्च ॥

गुरुश्च शुक्रः शनि राहु केतवः ।
कुर्वन्तु सर्वे मम सुप्रभातम् ॥

कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणत क्लेशनाशाय गोविन्दाय नमो नमः ॥

स्नान करने के समय

गङ्गे च यमुने कृष्णे गोदवरि सरस्वति ।
नर्मदे सिन्धु कावेर्यौ जलेऽस्मिन् सन्निधिं कुरु ॥

गङ्गा गङ्गेति यो ब्रूयात् योजनानां शतैरपि ।
मुच्यते सर्व पापाभ्यो विष्णुलोकं स गच्छति ॥

अम्ब त्वद्दर्शनान्मुक्तिः न जाने स्नानजं फलम् ।
स्वर्गारोहण सोपानं महापुण्य तरङ्गिणीं ।
वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥

गङ्गे मां पुनीहि ।

सूर्य भगवान के दर्शन करते हुये

ब्रह्म स्वरूपमुदये मध्याह्नेतु महेश्वरम् ।
सायं ध्यायेत्सदा विष्णुं त्रिमूर्तिं च दिवाकरम् ॥

द्वितीय चन्द्रमा के दर्शन करते हुये

क्षीरसागर सम्पन्न लक्ष्मी प्रिय सहोदर ।
हिरण्यमकुटाभास्वद्बालचन्द्र नमोऽस्तु ते ॥

तुलसी माता के दर्शन करते हुये

यन्मूले सर्वतीर्थानि यन्मध्ये सर्वदेवताः ।
यदग्रे सर्ववेदाश्च तुलसि त्वां नमाम्यहम् ॥

नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे ।
नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिनि ॥

तुलसी पत्तों को लेते समय

तुलस्यमृतजन्मासि सदा त्वं केशवप्रिये ।
केशवार्थं चिनोमि त्वां क्षमस्व हरिवल्लभे

अश्वत्थ वृक्ष के दर्शन करते हुये

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रतः शिवरूपाय वृक्षराजाय ते नमः ॥

भोजन से पहले

अहं वैश्वानरोभूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥

ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणाहुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥

एकश्लोकी रामायण
आदौ राम तपोवनादि गमनं हत्वा मृगं काञ्चनम् ।
वैदेही हरणं जटायु मरणं सुग्रीव सम्भाषणम् ॥
वाली निग्रहणं समुद्रतरणं लङ्कापुरीदाहनम् ।
पश्चाद्रावणकुम्भकर्णहननं चेतद्धि रामायणम् ॥

एकश्लोकी भागवतम्
आदौ देवकिदेवि गर्भजननं गोपी गृहेवर्धनं ।
मायापूतन जीवितापहरणं गोवर्धनोद्धारणम् ॥
कंसच्छेदन कौरवादि हननं कुन्तीसुतापालनं ।
ह्येतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ॥

एकश्लोकी भारतम्
आदौ पाण्डवधार्तराष्ट्रजननं लाक्षागृहेदाहनं ।
द्यूतश्रीहरणं वने विचरणं मत्स्य़ालये वर्तनम् ॥
लीलागोग्रहणं रणे विहरणं सन्धिक्रियाजृंभणं ।
भीष्मद्रोणसुयोधनादिमथनं ह्येतन्महाभारतम् ॥

नागस्तोत्रम्
नमस्ते देव देवेश नमस्ते धरणीधर ।
नमस्ते सर्वनागेन्द्र आदिशेष नमोऽस्तु ते ॥

यज्ञेश्वर प्रार्थना
नमस्ते यज्ञभोक्त्रे च नमस्ते हव्यवाहन ।
नमस्ते वीतिहोत्राय सप्तजिह्वाय ते नमः ॥

दवायी लेते समय
अच्युतानन्द गोविन्द नामोच्छारण भेषजात् ।
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥
शरीरे जर्जरी भूते व्य़ाधिग्रस्ते कलेबरे ।
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥

यात्रा करने से पहले
यः शिवो नाम रूपाभ्यां या देवी सर्वमङ्गला ।
तयोः संस्मरणात् पुंसां सर्वतो जय मङ्गलम् ॥

नारायण नारायण नारायण ॥

दीप जलाते हुये
दीपं ज्योतिः परम्ब्रह्म दीपं सर्व तमोऽपहम् ।
दीपेन साध्यते सर्वं सन्ध्या दीप नमोऽस्तु ते ॥

शुभं करोतु कल्याणं आरोग्यं सुख सम्पदम् ।
शत्रुबुद्धिविनाशं च दीप ज्योतिर्नमोऽस्तु ते ॥

सोने से पहले
रामं स्कन्दं हनूमन्तं वैनतेयं वृकोदरम् ।
शयने यः स्मरेन्नित्यं दुःस्वप्नं तस्य नश्यति ॥

अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर ॥

कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसम्मूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥

बुरे सपने आये तो
ब्रह्माणं शङ्करं विष्णुं यमं रामं दनुं बलिम् ।
सप्तैतान् संस्मरेन्नित्यं दुःस्वप्नं तस्य नश्यति ॥

कलि दोष निवारण श्लोक
कर्कोटकस्य नागस्य दमयन्त्या नलस्य च ।
ऋतुपर्णस्य राजर्षेः कीर्तनं कलि नाशनम् ॥

शमी दर्शन श्लोक
शमी शमयते पापं शमी शतृविनाशिनी ।
अर्जुनस्य धनुर्धारी रामस्य प्रियदर्शिनी ॥

दारिद्र्य दुःख निवारण
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः ।
स्वस्थैः स्मृतामतिमतीव शुभां ददासि ॥

दारिद्र्यदुःखभयहारिणि का त्वदन्या ।
सर्वोपकारकरणाय सदार्द्रचित्ता ॥

आपद निवारण
आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥

कलिकल्मषनाशन महामन्त्र
हरे राम हरे राम राम राम हरे हरे ।
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ॥


Vividha Stotrani – विविध स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.